|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.31. अध्यायः 031
अथ पुत्रदर्शनपर्व ॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्राश्रमे भ्रात्रादिभिः सैन्येन च सह मासमेकं निवसति युधिष्ठिरे कदाचन व्यासधृतराष्ट्रौ परिवार्य नारादादिभिर्गान्धार्यादिभिः पाण्डवैश्च समुपवेशनम्॥ 1 ॥ तत्र गान्धार्या व्यासम्प्रति धृतराष्ट्रस्य पुत्रदिदृक्षानिवेदने व्यासेन कुन्तींप्रति तदभीष्टनिवेदनचोदना॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
जनमेजय उवाच।
वनवासं गते विप्र धृतराष्ट्रे महीपतौ।
सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते॥ 16-31-1(97974)
विदुरे चापि धर्मज्ञे धर्मराजं व्यपश्रिते।
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले॥ 16-31-2(97975)
यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह।
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे॥ 16-31-3(97976)
वनवासे च कौरव्याः कियन्तं कालमच्युतः।
युधिष्ठिरो नरपतिर्न्यवसत्सजनस्तदा॥ 16-31-4(97977)
किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो।
सान्तःपुरा महात्मान एतदिच्छामि वेदितुम्॥ 16-31-5(97978)
वैशम्पायन उवाच। 16-31-6x(8058)
`वनवासगतं राजन्धृतराष्ट्रं महीपतिम्।
युधिष्ठिरोऽभ्ययाद्द्रष्टुं ससैन्यो भ्रातृभिः सह॥ 16-31-6(97979)
प्रथमे दिवसे चैषामापो मूलं फलं तथा।
भोजनं भूमिशय्या च तत्रासीद्भरतर्षभ॥ 16-31-7(97980)
तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः।
विविधान्यन्नपानानि शय्याश्चैवाभजन्वने॥ 16-31-8(97981)
मासमेकं विजह्रुस्ते ससैन्यान्तःपुरो वने।
अथ तत्रागमद्व्यासो यथोक्तं ते मयाऽनघ॥ 16-31-9(97982)
तथा च तेषां सर्वेषां कथाभिर्नृपसन्निधौ।
व्यासन्वास्य तं राजन्नाजग्मुर्मुनयोऽपरे॥ 16-31-10(97983)
नारदः पर्वतश्चैव देवलश्च महातपाः।
विश्वावसुस्तुंबुरुश्च चित्रसेनश्च भारत॥ 16-31-11(97984)
तेषामपि यथान्यायं पूजां चक्रे महातपाः।
धृतराष्ट्राभ्यनुज्ञातः कुरराजो युधिष्ठिरः॥ 16-31-12(97985)
निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात्।
आसनेषु च पुण्येषु बर्हिणेषु वरेषउ च॥ 16-31-13(97986)
तेषु तत्रोपविष्टेषु स तु राजा महामतिः।
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वह॥ 16-31-14(97987)
गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा।
स्त्रियश्चान्यास्तथाऽन्याभिः सहोपविविशुस्ततः॥ 16-31-15(97988)
तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप।
राजर्षीणां पुराणानां देवासुरविभिश्रिताः॥ 16-31-16(97989)
ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम्।
प्रोवाच वदतांश्रेष्ठः पुनरेव स तद्वचः॥ 16-31-17(97990)
प्रीयमाणो महातेजाः सर्ववेदविदांवरः।
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम्॥ 16-31-18(97991)
दह्यमानस्य शोकेन तव पुत्रकृतेन वै।
गान्धार्याश्चैव यद्दुःखं हृदि तिष्टति नित्यदा॥ 16-31-19(97992)
कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम्।
यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम्।
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम॥ 16-31-20(97993)
श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप।
संशयच्छेदनार्थाय प्राप्तः कौरवनन्दन॥ 16-31-21(97994)
इमे च देवगन्धर्वाः सर्वे चेमे महर्षयः।
पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम्॥ 16-31-22(97995)
तदुच्यतां महाप्राज्ञ कं कामं प्रददामि ते।
प्रवणोस्मि वरं दातुं पश्य मे तपसो बलम्॥ 16-31-23(97996)
एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना।
मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे॥ 16-31-24(97997)
धन्योस्म्यनुगृहीतश्च सफलं जीवितं च मे।
यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः॥ 16-31-25(97998)
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः।
ब्रह्मकल्पैर्भवद्भिर्यत्समेतोऽहं तपोधनाः॥ 16-31-26(97999)
दर्शनादेव भवतां पूतोऽहं नात्र संशयः।
विद्यते न भयं चापि परलोके ममानघाः॥ 16-31-27(98000)
किंतु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम्।
दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः॥ 16-31-28(98001)
अपापाः पाण्डवा येन निकृताः पापबुद्धिना।
घातिता पृथिवी येन सहया सनरद्विपा॥ 16-31-29(98002)
राजानश्च महात्मानो नानाजनपदेश्वराः।
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः॥ 16-31-30(98003)
ये ते पितॄश्चं दारांश्च प्राणांश्च मनसः प्रियान्।
परित्यज्य गताः शूराः प्रेतराजनिवेशनम्॥ 16-31-31(98004)
का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे।
तथैव पुत्रपौत्राणां मम ये निहता युधि॥ 16-31-32(98005)
दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम्।
भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम्॥ 16-31-33(98006)
मम पुत्रेण मूढेन पापेनाकृतबुद्धिना।
क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता॥ 16-31-34(98007)
`एते मदर्थे पुत्रांश्च दारांश्च मनसः प्रियान्।
भोगांश्च विविधांस्तात इष्टापुर्तांस्तथैव च।
परित्यज्य गताः शूराः प्रेतराजनिवेशनम्॥' 16-31-35(98008)
एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम्।
न शान्तिमधिगच्छामि दुःखशोकसमाहतः॥ 16-31-36(98009)
इति मे चिन्तयानस्य पितः शान्तिर्न विद्यते॥ 16-31-37(98010)
वैशम्पायन उवाच। 16-31-38x(8059)
तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम्।
पुनर्नवीकृतः शोको गान्धार्या जनमेजय॥ 16-31-38(98011)
कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च।
तासां च वरनारीणां वधूनां कौरवस्य ह॥ 16-31-39(98012)
पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत्।
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता॥ 16-31-40(98013)
`लोकान्तरगतान्पुत्रानयं काङ्क्षति मानद।
तच्चास्य मासं ज्ञातं भगवंस्तपसा त्वया॥' 16-31-41(98014)
षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव।
अस्य राज्ञोहतान्पुत्राञ्शोचतो न शमो विभो॥ 16-31-42(98015)
पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः।
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने॥ 16-31-43(98016)
लोकानन्यान्समर्थोसि स्रष्टुं सर्वांस्तपोबलात्।
किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान्॥ 16-31-44(98017)
इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम्।
शोचत्यतीव सर्वासां स्नुषाणां दयिता स्नुषा॥ 16-31-45(98018)
तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी।
सौभद्रकवधसंतप्ता भृशं शोचति भामिनी॥ 16-31-46(98019)
इयं च भूरिश्रवसो भार्या परमसम्मता।
भर्तृव्यसनशोकार्ता भृशं शोचति भामिनी॥ 16-31-47(98020)
यस्यास्तु श्वशुरो धीमान्बाह्लिकः स कुरूद्वहः।
निहतः सोमदत्तश्च पित्रा सह महारणे॥ 16-31-48(98021)
श्रीमतोस्य महाबुद्धेः सङ्ग्रामेष्वपलायिनः।
पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे॥ 16-31-49(98022)
तस्य भार्याशतमिदं दुःखशोकसमाहतम्।
पुनःपुनर्वर्धयानं शोकं रोज्ञो ममैव च।
हताहारेण महता मामुपास्ते महामुने॥ 16-31-50(98023)
ये च शूरा महात्मानः श्वशुरा मे महारथाः।
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो॥ 16-31-51(98024)
तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः।
कुर्यात्कालमहं चेयं वधूस्तव महामुने॥ 16-31-52(98025)
इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना।
प्रच्चन्नजातं पुत्रं तु सस्मारादित्यसन्निभम्॥ 16-31-53(98026)
तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः।
अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः॥ 16-31-54(98027)
तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम्।
तद्बूहि त्वं महाभागे यत्ते मनसि वर्तते॥ 16-31-55(98028)
श्वशुराय तत कुन्ती प्रणम्य शिरसा तदा।
उवाच वाक्यं सव्रीडा विवृण्वाना पुरातनम्॥ ॥ 16-31-56(98029)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि एकत्रिंशोऽध्यायः॥ 31 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-31-13 बर्हिणेषु पक्षिबर्हजतूलिकामयेषु॥ 7-31-50 मामुपास्ते भार्याशतं रोदनं कुर्वत् मामेव परिवार्य तिष्ठतीत्यर्थः


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|